|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.166. अध्यायः 166
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति संधेयासंधेयपुरुषलक्षणकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-166-0x(5853)(71676)
पितामह महाप्राज्ञ कुरूणां प्रीतिवर्धन।
प्रश्नं कंचित्प्रवक्ष्यामि तन्मे व्याख्यातुमर्हसि॥ 12-166-1(71677)
कीदृशा मानवाः सेव्याः कै प्रीति परमा भवेत्।
आयत्यां च तदात्वे च के क्षमास्तान्वदस्व मे॥ 12-166-2(71678)
न हि तत्र धनं स्फीतं न च संबन्धिबान्धवाः।
तिष्ठन्ति यत्र सुहृदस्तिष्ठन्तीति मतिर्मम॥ 12-166-3(71679)
दुर्लभो हि सुहृच्छ्रोता दुर्लभश्च हितः सुहृत्।
एतद्धर्मभृतां श्रेष्ठ सर्वं व्याख्यातुमर्हसि॥ 12-166-4(71680)
भीष्म उवाच। 12-166-5x(5854)
सन्धेयान्पुरुषान्राजन्नसन्धेयांश्च तत्त्वतः।
वदतो मे निबोध त्वं निखिलेन युधिष्ठिर॥ 12-166-5(71681)
लुब्धः क्रूरस्त्यक्तधर्मा निकृतिः शठ एव च।
क्षुद्रः पापसमाचारः सर्वशङ्की तथाऽलसः॥ 12-166-6(71682)
दीर्घसूत्रोऽनृजुः क्रुष्टो गुरुदारप्रधर्पकः।
व्यसने यः परित्यागी दुरात्मा निरपत्रपः॥ 12-166-7(71683)
सर्वतः पापदर्शी च नास्तिको वेदनिन्दकः।
संप्रकीर्णेन्दियो लोके यः कालनिरतश्चरेत्॥ 12-166-8(71684)
असभ्यो लोकविद्विष्टः समये चानवस्थितः।
पिशुनोऽथाकृतप्रज्ञो मत्सरी पापनिश्चयः॥ 12-166-9(71685)
दुःशीलोऽथाकृतात्मा च नृशंसः कितवस्तथा।
मित्रैरपकृतिर्नित्यमटतेऽर्थं धनेप्सया॥ 12-166-10(71686)
ददतश्च यथाशक्ति यो न तुष्यति मन्दधीः।
अधैर्यमपि यो युङ्क्ते सदा मित्रं नराधमः॥ 12-166-11(71687)
अस्थानक्रोधनो यश्च अकस्माच्च विरज्यते।
सुहृदश्चैव कल्याणानाशु त्यजति किल्बिपी॥ 12-166-12(71688)
अल्पेऽप्यपकृते मूढे न संस्मरनि यत्कृतम्।
कार्यसेवी च मित्रेषु मित्रद्वेषी नराधिप। 12-166-13(71689)
शत्रुर्मित्रमुखो यश्च जिह्नप्रेक्षी विलोचनः।
न तुष्यति च कल्याणे यम्त्यजेत्तादृशं नरम्॥ 12-166-14(71690)
पानपो द्वेषणः क्रोधी निर्घृणः परुपस्तथा।
परोपतापी मित्रध्रुक् तथा प्राणिवधे रतः॥ 12-166-15(71691)
कृतघ्नश्चाधमो लोके न सन्धेयः कथंचन।
मित्रद्वेषी ह्यसंधेयः सन्धेयानपि मे शृणु॥ 12-166-16(71692)
कुलीना वाक्यसंपन्ना ज्ञानविज्ञानकोविदाः।
रूपवन्तो गुणोपेतास्तथाऽलुब्धा जितश्रमाः॥ 12-166-17(71693)
सन्मित्राश्च कृतज्ञाश्च सर्वज्ञा लोभवर्जिताः।
माधुर्यगुणसंपन्नाः सत्यसन्धा जितेन्द्रियाः॥ 12-166-18(71694)
व्यायामशीलाः सततं भृत्यपुत्राः कुलोद्वहाः।
दोषैः प्रमुक्ताः प्रथितास्ते ग्राह्याः पार्थिवैर्नराः॥ 12-166-19(71695)
यथाशक्ति समाचाराः संप्रतुष्यन्ति हि प्रभो।
नास्थाने क्रोधवन्तश्च न चाकस्माद्विरागिणः॥ 12-166-20(71696)
विरक्ताश्च न दुष्यन्ति मनसाऽप्यर्थकोविदाः।
आत्मानं पीडयित्वाऽपि सुहृत्कार्यपरायणाः।
विरज्यन्ति न मित्रेभ्यो वासो रक्तमिवाविकम्॥ 12-166-21(71697)
दोषांश्च लोभमोहादीनर्थेषु युवतीपु च।
न दर्शयन्ति सुहृदो विश्वस्ता बन्धुवत्सलाः॥ 12-166-22(71698)
लोष्टकाञ्चनतुल्यार्थाः सुहृत्सु दृढबुद्धयः।
ये चरन्त्यनभीमाना निसृष्टार्थविभूषणाः।
संगृह्णन्तः परिजनं स्वाम्यर्थपरमाः सदा॥ 12-166-23(71699)
ईदृशैः पुरुषश्रेष्ठैर्यः सन्धिं कुरुते नृपः।
तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव॥ 12-166-24(71700)
सत्ववन्तो जितक्रोधा बलवन्तो रणे सदा।
जन्मशीलगुणोपेताः सन्धेयाः पुरुषोत्तमाः। 12-166-25(71701)
ये च दोपसमायुक्ता नराः प्रोक्ता मयाऽन।
तेषामप्यधमा राजन्कृतघ्ना मित्रघातकाः।
त्यक्तव्यास्तु दुराचाराः सर्वेषामिति निश्चयः। ॥ 12-166-26(71702)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि षट्षष्ट्यधिकशततमोऽध्यायः॥ 166॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-166-3 मित्रस्यार्थादिभ्योऽन्तरङ्गत्वमाह नहीति॥ 12-166-5 सन्धेयान नित्रीकर्तुं योग्यान्॥ 12-166-7 क्रुष्टो लोकनिन्दितः॥ 12-166-10 नित्यमिच्छतेऽर्थं परस्य य इति झ. पाठः॥ 12-166-12 कार्यार्थमेव सेवते न तु धर्मार्धमिति कार्ययेती॥ 12-166-14 विमोचनः विपरीतदृष्टिः॥ 12-166-16 छिद्रान्वेपी ह्यसन्धेयं इति झ. पाठः॥ 12-166-21 वासो रक्तमिवाधिकं मेपकम्वलः॥ 12-166-26 कृतं उपकारं घ्नन्ति वाचाऽपलापेन वाते कृतघ्नाः त एव उपकर्तुर्नाशकरामिबहुहः।


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|